श्रीमद् दत्तात्रेयसहस्रनामावली

ॐ श्री दत्तात्रेयाय नमः ।

ॐ महायोगिने नमः ।

ॐ योगेशाय नमः ।

ॐ अमरप्रभवे नमः ।

ॐ मुनये नमः ।

ॐ दिगम्बराय नमः ।

ॐ बालाय नमः ।

ॐ मायामुक्ताय नमः ।

ॐ मदापहाय नमः ।

ॐ अवधूताय नमः । १०

ॐ महानाथाय नमः ।

ॐ शङ्कराय नमः ।

ॐ अमरवल्लभाय नमः ।

ॐ महादेवाय नमः ।

ॐ आदिदेवाय नमः ।

ॐ पुराणप्रभवे नमः ।

ॐ ईश्वराय नमः ।

ॐ सत्त्वकृते नमः ।

ॐ सत्त्वभृते नमः ।

ॐ भावाय नमः । २०

ॐ सत्त्वात्मने नमः ।

ॐ सत्त्वसागराय नमः ।

ॐ सत्त्वविदे नमः ।

ॐ सत्त्वसाक्षिणे नमः ।

ॐ सत्त्वसाध्याय नमः ।

ॐ अमराधिपाय नमः ।

ॐ भूतकृते नमः ।

ॐ भूतभृते नमः ।

ॐ भूतात्मने नमः ।

ॐ भूतसम्भवाय नमः । ३०

ॐ भूतभवाय नमः ।

ॐ भावाय नमः ।

ॐ भूतविदे नमः ।

ॐ भूतकारणाय नमः ।

ॐ भूतसाक्षिणे नमः ।

ॐ प्रभूतये नमः ।

ॐ भूतानां परमं गतये नमः ।

ॐ भूतसङ्गविहीनात्मने नमः ।

ॐ भूतात्मने नमः ।

ॐ भूतशङ्कराय नमः । ४०

ॐ भूतनाथाय नमः ।

ॐ भूतमहानाथाय नमः ।

ॐ भूतादिनाथाय नमः ।

ॐ महेश्वराय नमः ।

ॐ सर्वभूतनिवासात्मने नमः ।

ॐ भूतसन्तापनाशनाय नमः ।

ॐ सर्वात्मने नमः ।

ॐ सर्वभृते नमः ।

ॐ सर्वाय नमः ।

ॐ सर्वज्ञाय नमः । ५०

ॐ सर्वनिर्णयाय नमः ।

ॐ सर्वसाक्षिणे नमः ।

ॐ बृहद्भानवे नमः ।

ॐ सर्वविदे नमः ।

ॐ सर्वमङ्गलाय नमः ।

ॐ शान्ताय नमः ।

ॐ सत्याय नमः ।

ॐ शमाय नमः ।

ॐ समाय नमः ।

ॐ एकाकिने नमः । ६०

ॐ कमलापतये नमः ।

ॐ रामाय नमः ।

ॐ रामप्रियाय नमः ।

ॐ विरामाय नमः ।

ॐ रामकारणाय नमः ।

ॐ शुद्धात्मने नमः ।

ॐ पवनाय नमः ।

ॐ अनन्ताय नमः ।

ॐ प्रतीताय नमः ।

ॐ परमार्थभृते नमः । ७०

ॐ हंससाक्षिणे नमः ।

ॐ विभवे नमः ।

ॐ प्रभवे नमः ।

ॐ प्रलयाय नमः ।

ॐ सिद्धात्मने नमः ।

ॐ परमात्मने नमः ।

ॐ सिद्धानां परमगतये नमः ।

ॐ सिद्धिसिद्धये नमः ।

ॐ साध्याय नमः ।

ॐ साधनाय नमः । ८०

ॐ उत्तमाय नमः ।

ॐ सुलक्षणाय नमः ।

ॐ सुमेधाविने नमः ।

ॐ विद्यवते नमः ।

ॐ विगतान्तराय नमः ।

ॐ विज्वराय नमः ।

ॐ महाबाहवे नमः ।

ॐ बहुलानन्दवर्धनाय नमः ।

ॐ अव्यक्तपुरुषाय नमः ।

ॐ प्रज्ञाय नमः । ९०

ॐ परज्ञाय नमः ।

ॐ परमार्थदृशे नमः ।

ॐ परापरविनिर्मुक्ताय नमः ।

ॐ युक्ताय नमः ।

ॐ तत्त्वप्रकाशवते नमः ।

ॐ दयावते नमः ।

ॐ भगवते नमः ।

ॐ भाविने नमः ।

ॐ भावात्मने नमः ।

ॐ भावकारणाय नमः । १००

ॐ भवसन्तापनाशनाय ॥

ॐ पुष्पवते नमः ।

ॐ पण्डिताय नमः ।

ॐ बुद्धाय नमः ।

ॐ प्रत्यक्षवस्तवे नमः ।

ॐ विश्वात्मने नमः ।

ॐ प्रत्यग्ब्रह्मसनातनाय नमः ।

ॐ प्रमाणविगताय नमः ।

ॐ प्रत्याहारणी योजकाय नमः ।

ॐ प्रणवाय नमः । ११०

ॐ प्रणवातीताय नमः ।

ॐ प्रमुखाय नमः ।

ॐ प्रलयात्मकाय नमः ।

ॐ मृत्युञ्जयाय नमः ।

ॐ विविक्तात्मने नमः ।

ॐ शङ्करात्मने नमः ।

ॐ परस्मैवपुषे नमः ।

ॐ परमाय नमः ।

ॐ तनुविज्ञेयाय नमः ।

ॐ परमात्मनिसंस्थिताय नमः । १२०

ॐ प्रबोधकलनाधाराय नमः ।

ॐ प्रभाव प्रवरोत्तमाय नमः ।

ॐ चिदम्बराय नमः ।

ॐ चिद्विलासाय नमः ।

ॐ चिदाकाशाय नमः ।

ॐ चिदुत्तमाय नमः ।

ॐ चित्त चैतन्य चित्तात्मने नमः ।

ॐ देवानां परमागतये नमः ।

ॐ अचेत्याय नमः ।

ॐ चेतनाधाराय नमः । १३०

ॐ चेतनाचित्तविक्रमाय नमः ।

ॐ चित्तात्मने नमः ।

ॐ चेतनारूपाय नमः ।

ॐ लसत्पङ्कजलोचनाय नमः ।

ॐ परब्रह्मणे नमः ।

ॐ परञ्ज्योतिये नमः ।

ॐ परन्धाम्ने नमः ।

ॐ परन्तपसे नमः ।

ॐ परंसूत्राय नमः ।

ॐ परतन्त्राय नमः । १४०

ॐ पवित्राय नमः ।

ॐ परमोहवते नमः ।

ॐ क्षेत्रज्ञाय नमः ।

ॐ क्षेत्रगाय नमः ।

ॐ क्षेत्राय नमः ।

ॐ क्षेत्राधाराय नमः ।

ॐ पुराञ्ज्यनाय नमः ।

ॐ क्षेत्रशून्याय नमः ।

ॐ लोकसाक्षिणे नमः ।

ॐ क्षेत्रवते नमः । १५०

ॐ बहुनायकाय नमः ।

ॐ योगीन्द्राय नमः ।

ॐ योगपूज्याय नमः ।

ॐ योग्याय नमः ।

ॐ आत्मविदंशुचये नमः ।

ॐ योगमायाधराय नमः ।

ॐ स्थानवे नमः ।

ॐ अचलाय नमः ।

ॐ कमलापतये नमः ।

ॐ योगेशाय नमः । १६०

ॐ योगनिमन्त्रे नमः ।

ॐ योगज्ञानप्रकाशकाय नमः ।

ॐ योगपालाय नमः ।

ॐ लोकपालाय नमः ।

ॐ संसारतमोनाशनाय नमः ।

ॐ गुह्याय नमः ।

ॐ गुह्यतमाय नमः ।

ॐ गुप्तये नमः ।

ॐ मुक्ताय नमः ।

ॐ युक्ताय नमः । १७०

ॐ सनातनाय नमः ।

ॐ गहनाय नमः ।

ॐ गगनाकाराय नमः ।

ॐ गम्भीराय नमः ।

ॐ गणनायकाय नमः ।

ॐ गोविन्दाय नमः ।

ॐ गोपतये नमः ।

ॐ गोप्त्रे नमः ।

ॐ गोभागाय नमः ।

ॐ भावसंस्थिताय नमः । १८०

ॐ गोसाक्षिणे नमः ।

ॐ गोतमारये नमः ।

ॐ गान्धाराय नमः ।

ॐ गगनाकृतये नमः ।

ॐ योगयुक्ताय नमः ।

ॐ भोगयुक्ताय नमः ।

ॐ शङ्कामुक्त समाधिमते नमः ।

ॐ सहजाय नमः ।

ॐ सकलेशनाय नमः ।

ॐ कार्तवीर्यवरप्रदाय नमः । १९०

ॐ सरजसे नमः ।

ॐ विरजसे नमः ।

ॐ पुंसे नमः ।

ॐ पावनाय नमः ।

ॐ पापनाशनाय नमः ।

ॐ परावरविनिर्मुक्ताय नमः ।

ॐ परञ्ज्योतिये नमः ।

ॐ पुरातनाय नमः ।

ॐ नानाज्योतिषे नमः ।

ॐ अनेकात्मने नमः । २००

ॐ स्वयञ्ज्योतिषे ॥

 

ॐ सदाशिवाय नमः ।

ॐ दिव्यज्योतिर्मयाय नमः ।

ॐ सत्यविज्ञानभास्कराय नमः ।

ॐ नित्यशुद्धाय नमः ।

ॐ पराय नमः ।

ॐ पूर्णाय नमः ।

ॐ प्रकाशाय नमः ।

ॐ प्रकटोद्भवाय नमः ।

ॐ प्रमादविगताय नमः । २१०

ॐ परेशाय नमः ।

ॐ परविक्रमाय नमः ।

ॐ योगिने नमः ।

ॐ योगाय नमः ।

ॐ योगपाय नमः ।

ॐ योगाभ्यासप्रकाशनाय नमः ।

ॐ योक्त्रे नमः ।

ॐ मोक्त्रे नमः ।

ॐ विधात्रे नमः ।

ॐ त्रात्रे नमः । २२०

ॐ पात्रे नमः ।

ॐ निरायुधाय नमः ।

ॐ नित्यमुक्ताय नमः ।

ॐ नित्ययुक्ताय नमः ।

ॐ सत्याय नमः ।

ॐ सत्यपराक्रमाय नमः ।

ॐ सत्त्वशुद्धिकराय नमः ।

ॐ सत्त्वाय नमः ।

ॐ सत्त्वभृताङ्गतये नमः ।

ॐ श्रीधराय नमः । २३०

ॐ श्रीवपुषे नमः ।

ॐ श्रीमते नमः ।

ॐ श्रीनिवासाय नमः ।

ॐ अमरार्चिताय नमः ।

ॐ श्रीनिधये नमः ।

ॐ श्रीपतये नमः ।

ॐ श्रेष्ठाय नमः ।

ॐ श्रेयस्काय नमः ।

ॐ चरमाश्रयाय नमः ।

ॐ त्यागिने नमः । २४०

ॐ त्यागाज्यसम्पन्नाय नमः ।

ॐ त्यागात्मने नमः ।

ॐ त्यागविग्रहाय नमः ।

ॐ त्यागलक्षणसिद्धात्मने नमः ।

ॐ त्यागज्ञाय नमः ।

ॐ त्यागकारणाय नमः ।

ॐ भागाय नमः ।

ॐ भोक्त्रे नमः ।

ॐ भोग्याय नमः ।

ॐ भोगसाधनकारणाय नमः । २५०

ॐ भोगिने नमः ।

ॐ भोगार्थसम्पन्नाय नमः ।

ॐ भोगज्ञानप्रकाशनाय नमः ।

ॐ केवलाय नमः ।

ॐ केशवाय नमः ।

ॐ कृष्णाय नमः ।

ॐ कंवाससे नमः ।

ॐ कमलालयाय नमः ।

ॐ कमलासनपूज्याय नमः ।

ॐ हरये नमः । २६०

ॐ अज्ञानखण्डनाय नमः ।

ॐ महात्मने नमः ।

ॐ महदादये नमः ।

ॐ महेशोत्तमवन्दिता नमः ।

ॐ मनोवृद्धिविहीनात्मने नमः ।

ॐ मानात्मने नमः ।

ॐ मानवाधिपाय नमः ।

ॐ भुवनेशाय नमः ।

ॐ विभूतये नमः ।

ॐ धृतये नमः । २७०

ॐ मेधाये नमः ।

ॐ स्मृतये नमः ।

ॐ दयाये नमः ।

ॐ दुःखदावानलाय नमः ।

ॐ बुद्धाय नमः ।

ॐ प्रबुद्धाय नमः ।

ॐ परमेश्वराय नमः ।

ॐ कामघ्नाय नमः ।

ॐ क्रोधघ्नाय नमः ।

ॐ दम्भदर्पमदापहाय नमः । २८०

ॐ अज्ञानतिमिरारये नमः ।

ॐ भवारये नमः ।

ॐ भुवनेश्वराय नमः ।

ॐ रूपकृते नमः ।

ॐ रूपभृते नमः ।

ॐ रूपिणे नमः ।

ॐ रूपात्मने नमः ।

ॐ रूपकारणाय नमः ।

ॐ रूपज्ञाय नमः ।

ॐ रूपसाक्षिणे नमः । २९०

ॐ नामरूपाय नमः ।

ॐ गुणान्तकाय नमः ।

ॐ अप्रमेयाय नमः ।

ॐ प्रमेयाय नमः ।

ॐ प्रमाणाय नमः ।

ॐ प्रणवाश्रयाय नमः ।

ॐ प्रमाणरहिताय नमः ।

ॐ अचिन्त्याय नमः ।

ॐ चेतनाविगताय नमः ।

ॐ अजराय नमः । ३००

ॐ अक्षराय नमः ।

ॐ अक्षरमुक्ताय नमः ।

ॐ विज्वराय नमः ।

ॐ ज्वरनाशनाय नमः ।

ॐ विशिष्टाय नमः ।

ॐ वित्तशास्त्रिणे नमः ।

ॐ दृष्टाय नमः ।

ॐ दृष्टान्तवर्जिताय नमः ।

ॐ गुणेशाय नमः ।

ॐ गुणकायाय नमः । ३१०

ॐ गुणात्मने नमः ।

ॐ गुणभावनाय नमः ।

ॐ अनन्तगुणसम्पन्नाय नमः ।

ॐ गुणगर्भाय नमः ।

ॐ गुणाधिपाय नमः ।

ॐ गुणेशाय नमः ।

ॐ गुणनाथाय नमः ।

ॐ गुणात्मने नमः ।

ॐ गुणभावनाय नमः ।

ॐ गुणबन्धवे नमः । ३२०

ॐ विवेकात्मने नमः ।

ॐ गुणयुक्ताय नमः ।

ॐ पराक्रमिणे नमः ।

ॐ अतर्काय नमः ।

ॐ आकृतवे नमः ।

ॐ अग्नये नमः ।

ॐ कृतज्ञाय नमः ।

ॐ सफलाश्रयाय नमः ।

ॐ यज्ञाय नमः ।

ॐ यज्ञफलदात्रे नमः । ३३०

ॐ यज्ञात्मने नमः ।

ॐ ईजनाय नमः ।

ॐ अमरोत्तमाय नमः ।

ॐ हिरण्यगर्भाय नमः ।

ॐ श्रीगर्भाय नमः ।

ॐ स्वगर्भाय नमः ।

ॐ कुणपेश्वराय नमः ।

ॐ मायोगर्भाय नमः ।

ॐ लोकगर्भाय नमः ।

ॐ स्वयम्भुवे नमः । ३४०

ॐ भुवनान्तकाय नमः ।

ॐ निष्पापाय नमः ।

ॐ निबिडाय नमः ।

ॐ नन्दिने नमः ।

ॐ बोधिने नमः ।

ॐ बोधसमाश्रयाय नमः ।

ॐ बोधात्मने नमः ।

ॐ बोधनात्मने नमः ।

ॐ भेदवैतण्डखण्डनाय नमः ।

ॐ स्वभाव्याय नमः । ३५०

ॐ भावविमुक्ताय नमः ।

ॐ व्यक्ताय नमः ।

ॐ अव्यक्तसमाश्रयाय नमः ।

ॐ नित्यतृप्ताय नमः ।

ॐ निराभासाय नमः ।

ॐ निर्वाणाय नमः ।

ॐ शरणाय नमः ।

ॐ सुहृदे नमः ।

ॐ गुह्येशाय नमः ।

ॐ गुणगम्भीराय नमः । ३६०

ॐ गुणदेशनिवारणाय नमः ।

ॐ गुणसङ्गविहीनाय नमः ।

ॐ योगारेर्दर्पनाशनाय नमः ।

ॐ आनन्दाय नमः ।

ॐ परमानन्दाय नमः ।

ॐ स्वानन्दसुखवर्धनाय नमः ।

ॐ सत्यानन्दाय नमः ।

ॐ चिदानन्दाय नमः ।

ॐ सर्वानन्दपरायणाय नमः ।

ॐ सद्रूपाय नमः । ३७०

ॐ सहजाय नमः ।

ॐ सत्याय नमः ।

ॐ स्वानन्दाय नमः ।

ॐ सुमनोहराय नमः ।

ॐ सर्वाय नमः ।

ॐ सर्वान्तराय नमः ।

ॐ पूर्वात्पूर्वान्तराय नमः ।

ॐ स्वमयाय नमः ।

ॐ स्वपराय नमः ।

ॐ स्वादये नमः । ३८०

ॐ स्वम्ब्रह्मणे नमः ।

ॐ स्वतनवे नमः ।

ॐ स्वगाय नमः ।

ॐ स्ववाससे नमः ।

ॐ स्वविहीनाय नमः ।

ॐ स्वनिधये नमः ।

ॐ स्वपराक्षयाय नमः ।

ॐ अनन्ताय नमः ।

ॐ आदिरूपाय नमः ।

ॐ सूर्यमण्डलमध्यगाय नमः । ३९०

ॐ अमोघाय नमः ।

ॐ परमामोघाय नमः ।

ॐ परेशाय नमः ।

ॐ परादाय नमः ।

ॐ कवये नमः ।

ॐ विश्वचक्षुषे नमः ।

ॐ विश्वसाक्षिणे नमः ।

ॐ विश्वबाहवे नमः ।

ॐ धनेश्वराय नमः ।

ॐ धनञ्जयाय नमः । ४००

ॐ महातेजसे नमः ।

ॐ तेजिष्ठाय नमः ।

ॐ तेजसाय नमः ।

ॐ सुखिने नमः ।

ॐ ज्योतिषे नमः ।

ॐ ज्योतिर्मयाय नमः ।

ॐ जेत्रे नमः ।

ॐ ज्योतिषां ज्योतिरात्मकाय नमः ।

ॐ ज्योतिषामपि ज्योतिषे नमः ।

ॐ जनकाय नमः । ४१०

ॐ जनमोहनाय नमः ।

ॐ जितेन्द्रियाय नमः ।

ॐ जितक्रोधाय नमः ।

ॐ जितात्मने नमः ।

ॐ जितमानसाय नमः ।

ॐ जितसङ्गाय नमः ।

ॐ जितप्राणाय नमः ।

ॐ जितसंसार नमः ।

ॐ निर्वासनाय नमः ।

ॐ निरालम्बाय नमः । ४२०

ॐ निर्योगक्षेमवर्जिताय नमः ।

ॐ निरीहाय नमः ।

ॐ निरहङ्काराय नमः ।

ॐ निराशीनिरुपाधिकाय नमः ।

ॐ निर्लाबोध्याय नमः ।

ॐ विविक्तात्मने नमः ।

ॐ विशुद्धोत्तम गौरवाय नमः ।

ॐ विद्यायिने नमः ।

ॐ परमार्थिने नमः ।

ॐ श्रद्धार्थिने नमः । ४३०

ॐ साधनात्मकाय नमः ।

ॐ प्रत्याहारिणे नमः ।

ॐ निराहारिणे नमः ।

ॐ सर्वाहारपरायणाय नमः ।

ॐ नित्यशुद्धाय नमः ।

ॐ निराकाङ्क्षिणे नमः ।

ॐ पारायणपरायणाय नमः ।

ॐ अणोर्नुतरया नमः ।

ॐ सूक्ष्माय नमः ।

ॐ स्थूलाय नमः । ४४०

ॐ स्थूलतराय नमः ।

ॐ एकाय नमः ।

ॐ अनेकरूपाय नमः ।

ॐ विश्वरूपाय नमः ।

ॐ सनातनाय नमः ।

ॐ नैकरूपाय नमः ।

ॐ निरूपात्मने नमः ।

ॐ नैकबोधमयाय नमः ।

ॐ नैकनाममयाय नमः ।

ॐ नैकविद्याविवर्धनाय नमः । ४५०

ॐ एकाय नमः ।

ॐ एकान्तिकाय नमः ।

ॐ नानाभावविवर्जिताय नमः ।

ॐ एकाक्षराय नमः ।

ॐ बीजाय नमः ।

ॐ पूर्णबिम्बाय नमः ।

ॐ सनातनाय नमः ।

ॐ मन्त्रवीर्याय नमः ।

ॐ मन्त्रबीजाय नमः ।

ॐ शास्त्रवीर्याय नमः । ४६०

ॐ जगत्पतये नमः ।

ॐ नानावीर्यधराय नमः ।

ॐ शक्त्रेशाय नमः ।

ॐ पृथिवीपतये नमः ।

ॐ प्राणेशाय नमः ।

ॐ प्राणदाय नमः ।

ॐ प्राणाय नमः ।

ॐ प्राणायामपरायणाय नमः ।

ॐ प्रणपञ्चकनिर्मुक्ताय नमः ।

ॐ कोशपञ्चकवर्जिताय नमः । ४७०

ॐ निश्चलाय नमः ।

ॐ निष्कलाय नमः ।

ॐ आङ्गाय नमः ।

ॐ निष्प्रपञ्चाय नमः ।

ॐ निरामयाय नमः ।

ॐ निराधाराय नमः ।

ॐ निराकाराय नमः ।

ॐ निर्विकार्याय नमः ।

ॐ निरञ्जनाय नमः ।

ॐ निष्प्रतीताय नमः । ४८०

ॐ निराभासाय नमः ।

ॐ निरासक्ताय नमः ।

ॐ निराकुलाय नमः ।

ॐ निष्ठासर्वगताय नमः ।

ॐ निरारम्भाय नमः ।

ॐ निराश्रयाय नमः ।

ॐ निरन्तराय नमः ।

ॐ सत्त्वगोप्त्रे नमः ।

ॐ शान्ताय नमः ।

ॐ दान्ताय नमः । ४९०

ॐ महामुनये नमः ।

ॐ निःशब्दाय नमः ।

ॐ सुकृताय नमः ।

ॐ स्वस्थाय नमः ।

ॐ सत्यवादिने नमः ।

ॐ सुरेश्वराय नमः ।

ॐ ज्ञानदाय नमः ।

ॐ ज्ञानविज्ञानिने नमः ।

ॐ ज्ञानात्मने नमः ।

ॐ आनन्दपूरेताय नमः । ५००

ॐ ज्ञानयज्ञविदां दक्षाय नमः ।

ॐ ज्ञानाग्नये नमः ।

ॐ ज्वलनाय नमः ।

ॐ बुधाय नमः ।

ॐ दयावते नमः ।

ॐ भवरोगारये नमः ।

ॐ चिकित्सा चरमागलाये नमः ।

ॐ चन्द्रमण्डल मध्यस्थाय नमः ।

ॐ चन्द्रकोटिसुशीलालये नमः ।

ॐ यन्त्रकृते नमः । ५१०

ॐ परमाय नमः ।

ॐ यन्त्रिणे नमः ।

ॐ यन्त्रारूढापराजिताय नमः ।

ॐ यन्त्रविदे नमः ।

ॐ यन्त्रवासाय नमः ।

ॐ यन्त्राधाराय नमः ।

ॐ धराधाराय नमः ।

ॐ तत्त्वज्ञाय नमः ।

ॐ तत्त्वभूतात्मने नमः ।

ॐ महत्तत्त्वप्रकाशनायनमः । ५२०

ॐ तत्त्वसङ्ख्यानयोगज्ञाय नमः ।

ॐ साङ्ख्यशास्त्रप्रवर्तकाय नमः ।

ॐ अनन्त विक्रमाय नमः ।

ॐ देवाय नमः ।

ॐ माधवाय नमः ।

ॐ धनेश्वराय नमः ।

ॐ साधवे नमः ।

ॐ साधु वरिष्ठात्मने नमः ।

ॐ सावधानाय नमः ।

ॐ अमरोत्तमाय नमः । ५३०

ॐ निःसङ्कल्पाय नमः ।

ॐ निराधाराय नमः ।

ॐ दुर्धराय नमः ।

ॐ आत्मविदे नमः ।

ॐ पतये नमः ।

ॐ आरोग्यसुखदाय नमः ।

ॐ प्रवराय नमः ।

ॐ वासवाय नमः ।

ॐ परेशाय नमः ।

ॐ परमोदाराय नमः । ५४०

ॐ प्रत्यक्चैतन्य दुर्गमाय नमः ।

ॐ दुराधर्षाय नमः ।

ॐ दुरावासाय नमः ।

ॐ दूरत्वपरिनाशनाय नमः ।

ॐ वेदविदे नमः ।

ॐ वेदकृते नमः ।

ॐ वेदाय नमः ।

ॐ वेदात्मने नमः ।

ॐ विमलाशयाय नमः ।

ॐ विविक्तसेविने नमः । ५५०

ॐ संसारश्रमनाशनाय नमः ।

ॐ ब्रह्मयोनये नमः ।

ॐ बृहद्योनये नमः ।

ॐ विश्वयोनये नमः ।

ॐ विदेहवते नमः ।

ॐ विशालाक्षाय नमः ।

ॐ विश्वनाथाय नमः ।

ॐ हाटकाङ्गदभूषणाय नमः ।

ॐ अबाध्याय नमः ।

ॐ जगदाराध्याय नमः । ५६०

ॐ जगदाखिलपालनाय नमः ।

ॐ जनवते नमः ।

ॐ धनवते नमः ।

ॐ धर्मिणे नमः ।

ॐ धर्मगाय नमः ।

ॐ धर्मवर्धनाय नमः ।

ॐ अमृताय नमः ।

ॐ शाश्वताय नमः ।

ॐ साध्याय नमः ।

ॐ सिद्धिदाय नमः । ५७०

ॐ सुमनोहराय नमः ।

ॐ खलुब्रह्म खलुस्थानाय नमः ।

ॐ मुनीनां परमागतये नमः ।

ॐ उपदृष्टे नमः ।

ॐ श्रेष्ठाय नमः ।

ॐ शुचिर्भूताय नमः ।

ॐ अनामयाय नमः ।

ॐ वेदसिद्धान्तवेद्याय नमः ।

ॐ मानसाह्लादवर्धनाय नमः ।

ॐ देहादन्याय नमः । ५८०

ॐ गुणादन्याय नमः ।

ॐ लोकादन्याय नमः ।

ॐ विवेकविदे नमः ।

ॐ दुष्टस्वप्नहराय नमः ।

ॐ गुरवे नमः ।

ॐ गुरुवरोत्तमाय नमः ।

ॐ कर्मिणे नमः ।

ॐ कर्मविनिर्मुक्ताय नमः ।

ॐ संन्यासिने नमः ।

ॐ साधकेश्वराय नमः । ५९०

ॐ सर्वभावविहिनाय नमः ।

ॐ तृष्णासङ्गनिवारणाय नमः ।

ॐ त्यागिने नमः ।

ॐ त्यगवपुषे नमः ।

ॐ त्यागाय नमः ।

ॐ त्यागदानविवर्जिताय नमः ।

ॐ त्यागकारणत्यागात्मने नमः ।

ॐ सद्गुरवे नमः ।

ॐ सुखदायकाय नमः ।

ॐ दक्षाय नमः । ६००

ॐ दक्षादि वन्द्याय नमः ।

ॐ ज्ञानवादप्रवतकाय नमः ।

ॐ शब्दब्रह्ममयात्मने नमः ।

ॐ शब्दब्रह्मप्रकाशवते नमः ।

ॐ ग्रसिष्णवे नमः ।

ॐ प्रभविष्णवे नमः ।

ॐ सहिष्णवे नमः ।

ॐ विगतान्तराय नमः ।

ॐ विद्वत्तमाय नमः ।

ॐ महावन्द्याय नमः । ६१०

ॐ विशालोत्तम वाङ्मुनये नमः ।

ॐ ब्रह्मविदे नमः ।

ॐ ब्रह्मभावाय नमः ।

ॐ ब्रह्मऋषये नमः ।

ॐ ब्राह्मणप्रियाय नमः ।

ॐ ब्रह्मणे नमः ।

ॐ ब्रह्मप्रकाशात्मने नमः ।

ॐ ब्रह्मविद्याप्रकाशनाय नमः ।

ॐ अत्रिवंशप्रभूतात्मने नमः ।

ॐ तापसोत्तम् वन्दिताय नमः । ६२०

ॐ आत्मवासिने नमः ।

ॐ विधेयात्मने नमः ।

ॐ अत्रिवंशविवर्धनाय नमः ।

ॐ प्रवर्तनाय नमः ।

ॐ निवृत्तात्मने नमः ।

ॐ प्रलयोदकसन्निभाय नमः ।

ॐ नारायणाय नमः ।

ॐ महागर्भाय नमः ।

ॐ भार्गवप्रियकृत्तमाय नमः ।

ॐ सङ्कल्पदुःखदलनाय नमः । ६३०

ॐ संसारतमनाशनाय नमः ।

ॐ त्रिविक्रमाय नमः ।

ॐ त्रिधाकाराय नमः ।

ॐ त्रिमूर्तये नमः ।

ॐ त्रिगुणात्मकाय नमः ।

ॐ भेदत्रयहराय नमः ।

ॐ तापत्रयनिवारकाय नमः ।

ॐ दोषत्रयविभेदिने नमः ।

ॐ संशयार्णवखण्डनाय नमः ।

ॐ असंशयाय नमः । ६४०

ॐ असंमूढाय नमः ।

ॐ अवादिने नमः ।

ॐ राजवन्दिताय नमः ।

ॐ राजयोगिने नमः ।

ॐ महायोगिने नमः ।

ॐ स्वभावगलिताय नमः ।

ॐ पुण्यश्लोकाय नमः ।

ॐ पवित्राङ्घ्रये नमः ।

ॐ ध्यानयोगपरायणाय नमः ।

ॐ ध्यानस्थाय नमः । ६५०

ॐ ध्यानगम्याय नमः ।

ॐ विधेयात्मने नमः ।

ॐ पुरातनाय नमः ।

ॐ अविज्ञेयाय नमः ।

ॐ अन्तरात्मने नमः ।

ॐ मुख्यबिम्बसनातनाय नमः ।

ॐ जीवसञ्जीवनाय नमः ।

ॐ जीवाय नमः ।

ॐ चिद्विलासाय नमः ।

ॐ चिदाश्रयाय नमः । ६६०

ॐ महेन्द्राय नमः ।

ॐ अमरमान्याय नमः ।

ॐ योगीन्द्राय नमः ।

ॐ योगविद्मयाय नमः ।

ॐ योगधर्माय नमः ।

ॐ योगाय नमः ।

ॐ तत्त्वाय नमः ।

ॐ तत्त्वविनिश्चयाय नमः ।

ॐ नैकबाहवे नमः ।

ॐ अनन्तात्मने नमः । ६७०

ॐ नैकनानापराक्रोणाय नमः ।

ॐ नैकाक्षिणे नमः ।

ॐ नैकपादाय नमः ।

ॐ नाथनाथाय नमः ।

ॐ उत्तमोत्तमाय नमः ।

ॐ सहस्रशीर्षिणे नमः ।

ॐ पुरुषाय नमः ।

ॐ सहस्राक्षाय नमः ।

ॐ सहस्रपदे नमः ।

ॐ सहस्ररूपदृशे नमः । ६८०

ॐ सहस्रामय उद्भवाय नमः ।

ॐ त्रिपाद पुरुषाय नमः ।

ॐ त्रिपदोर्ध्वाय नमः ।

ॐ त्र्ययम्बकाय नमः ।

ॐ महावीर्याय नमः ।

ॐ योगवीर्यविशारदाय नमः ।

ॐ विजयिने नमः ।

ॐ विनयिने नमः ।

ॐ जेत्रे नमः ।

ॐ वीतरागिणे नमः । ६९०

ॐ विराजिताय नमः ।

ॐ रुद्राय नमः ।

ॐ रौद्राय नमः ।

ॐ महाभीमाय नमः ।

ॐ प्राज्ञमुख्याय नमः ।

ॐ सदाशुचये नमः ।

ॐ अन्तर्ज्योतिषे नमः ।

ॐ अनन्तात्मने नमः ।

ॐ प्रत्यगात्मने नमः ।

ॐ निरन्तराय नमः । ७००

ॐ अरूपाय नमः ।

ॐ आत्मरूपाय नमः ।

ॐ सर्वभावविनिर्वृत्ताय नमः ।

ॐ अन्तःशून्याय नमः ।

ॐ बहिःशून्याय नमः ।

ॐ शून्यात्मने नमः ।

ॐ शून्यभावनाय नमः ।

ॐ अन्तःपूर्णाय नमः ।

ॐ बहिःपूर्णाय नमः ।

ॐ पूर्णात्मने नमः । ७१०

ॐ पूर्णभावनाय नमः ।

ॐ अन्तस्त्यागिने नमः ।

ॐ बहिस्त्यागिने नमः ।

ॐ त्यागात्मने नमः ।

ॐ सर्वयोगवते नमः ।

ॐ अन्तर्योगिने नमः ।

ॐ बहिर्योगिने नमः ।

ॐ सर्वयोगपरायणाय नमः ।

ॐ अन्तर्भोगिने नमः ।

ॐ बहिर्भोगिने नमः । ७२०

ॐ सर्वभिगविदुत्तमाय नमः ।

ॐ अन्तर्निष्ठाय नमः ।

ॐ बहिर्निष्ठाय नमः ।

ॐ सर्वनिष्ठामयाय नमः ।

ॐ बाह्यान्तरविमुक्ताय नमः ।

ॐ बाह्यान्तरविवर्जिताय नमः ।

ॐ शान्ताय नमः ।

ॐ शुद्धाय नमः ।

ॐ विशुद्धाय नमः ।

ॐ निर्वाणाय नमः । ७३०

ॐ प्रकृतिचे पराय नमः ।

ॐ अकालाय नमः ।

ॐ कालनेमिने नमः ।

ॐ कालकालाय नमः ।

ॐ जनेश्वराय नमः ।

ॐ कालात्मने नमः ।

ॐ कालकर्त्रे नमः ।

ॐ कालज्ञाय नमः ।

ॐ कालनाशनाय नमः ।

ॐ कैवल्य्पददात्रे नमः । ७४०

ॐ कैवल्यसुखदायकाय नमः ।

ॐ कैवल्यालयधराय नमः ।

ॐ निर्भराय नमः ।

ॐ हर्शवर्धनाय नमः ।

ॐ हृदयस्थाय नमः ।

ॐ हृषिकेषाय नमः ।

ॐ गोविन्दाय नमः ।

ॐ गर्भवर्जिताय नमः ।

ॐ सकलागमपूज्याय नमः ।

ॐ निगमाय नमः । ७५०

ॐ निगमाश्रयाय नमः ।

ॐ पराशक्तये नमः ।

ॐ पराकीर्तये नमः ।

ॐ परावृत्तये नमः ।

ॐ निधिस्मृतये नमः ।

ॐ पराविद्या पराक्षान्तये नमः ।

ॐ विभक्तये नमः ।

ॐ युक्तसद्गतये नमः ।

ॐ स्वप्रकाशाय नमः ।

ॐ प्रकाशात्मने नमः । ७६०

ॐ परासंवेदनात्मकाय नमः ।

ॐ स्वसेव्याय नमः ।

ॐ स्वविदं स्वात्मने नमः ।

ॐ स्वसंवेद्याय नमः ।

ॐ अनघाय नमः ।

ॐ क्षमिणे नमः ।

ॐ स्वानुसन्धान शीलात्मने नमः ।

ॐ स्वानुसन्धान गोचराय नमः ।

ॐ स्वानुसन्धान शून्यात्मने नमः ।

ॐ स्वनुसन्धानाश्रयाय नमः । ७७०

ॐ स्वबोधदर्पणाय नमः ।

ॐ अभङ्गाय नमः ।

ॐ कन्दर्पकुलनाशनाय नमः ।

ॐ ब्रह्मचारिणे नमः ।

ॐ ब्रह्मवेत्रे नमः ।

ॐ ब्राह्मणाय नमः ।

ॐ ब्रह्मवित्तमाय नमः ।

ॐ तत्त्वबोधाय नमः ।

ॐ सुधावर्षाय नमः ।

ॐ पवनाय नमः । ७८०

ॐ पापपावकाय नमः ।

ॐ ब्रह्मसूत्रविधेयात्मने नमः ।

ॐ ब्रह्मसूत्रार्थनिर्णयाय नमः ।

ॐ अत्यन्तिकाय नमः ।

ॐ महाकल्पाय नमः ।

ॐ सङ्कल्पावर्त नाशनाय नमः ।

ॐ आधिव्याधिहराय नमः ।

ॐ संशयार्णव शोषकाय नमः ।

ॐ तत्त्वात्मज्ञानसन्देशाय नमः ।

ॐ महानुभावभाविताय नमः । ७९०

ॐ आत्मानुभवसम्पन्नाय नमः ।

ॐ स्वानुभवसुखाश्रयाय नमः ।

ॐ अचिन्त्याय नमः ।

ॐ बृहद्भानवे नमः ।

ॐ प्रमदोत्कर्षनाशनाय नमः ।

ॐ अनिकेत प्रशान्तात्मने नमः ।

ॐ शून्यवासाय नमः ।

ॐ जगद्वपुषे नमः ।

ॐ चिद्गतये नमः ।

ॐ चिन्मयाय नमः । ८००

ॐ चक्रिणे ।

ॐ मायाचक्रप्रवर्तकाय नमः ।

ॐ सर्ववर्णविदारम्भिणे नमः ।

ॐ सर्वारम्भपरायणाय नमः ।

ॐ पुराणाय नमः ।

ॐ प्रवराय नमः ।

ॐ दात्रे नमः ।

ॐ सुनराय नमः ।

ॐ कनकाङ्गदिने नमः ।

ॐ अनसूयात्मजाय नमः । ८१०

ॐ दत्ताय नमः ।

ॐ सर्वज्ञाय नमः ।

ॐ सर्वकामदाय नमः ।

ॐ कामजिते नमः ।

ॐ कामपटाय नमः ।

ॐ कामिने नमः ।

ॐ कामप्रदागमाय नमः ।

ॐ कामवते नमः ।

ॐ कामपोषाय नमः ।

ॐ सर्वकामनिवर्तकाय नमः । ८२०

ॐ सर्वकामफलोत्पत्तये नमः ।

ॐ सर्वकामफलप्रदाय नमः ।

ॐ सर्वकामफलैः पूज्याय नमः ।

ॐ सर्वकामफलाश्रयाय नमः ।

ॐ विश्वकर्मणे नमः ।

ॐ कृतात्मने नमः ।

ॐ कृतज्ञाय नमः ।

ॐ सर्वसाक्षिकाय नमः ।

ॐ सर्वारम्भपरित्यागिने नमः ।

ॐ जडोन्मत्तपिशाचवते नमः । ८३०

ॐ भिक्षवे नमः ।

ॐ भिक्षाकराय नमः ।

ॐ भीक्ष्णाहारिणे नमः ।

ॐ निराश्रमणे नमः ।

ॐ अकुलाय नमः ।

ॐ अनुकूलाय नमः ।

ॐ विकलाय नमः ।

ॐ अकलाय नमः ।

ॐ जटिलाय नमः ।

ॐ वनचारिणे नमः । ८४०

ॐ दण्डिने नमः ।

ॐ मुण्डिने नमः ।

ॐ गन्धिने नमः ।

ॐ देहधर्मविहीनात्मने नमः ।

ॐ एकाकिने नमः ।

ॐ सङ्गवर्जिताय नमः ।

ॐ आश्रमिणे नमः ।

ॐ अनाश्रमारम्भाय नमः ।

ॐ अनाचारिणे नमः ।

ॐ कर्मवर्जिताय नमः । ८५०

ॐ असन्देहिने नमः ।

ॐ सन्देहिने नमः ।

ॐ नकिञ्चनाय नमः ॥

ॐ नृदेहिने नमः ।

ॐ देहशून्याय नमः ।

ॐ नाभाविने नमः ।

ॐ भावनिर्गताय नमः ।

ॐ नाब्रह्मणे नमः ।

ॐ परब्रह्मणे नमः ।

ॐ स्वयमेव निराकुलाय नमः । ८६०

ॐ अनघाय नमः ।

ॐ अगुरवे नमः ।

ॐ नाथनाथोत्तमाय नमः ।

ॐ गुरवे नमः ।

ॐ द्विभुजाय नमः ।

ॐ प्राकृताय नमः ।

ॐ जनकाय नमः ।

ॐ पितामहाय नमः ।

ॐ अनात्मने नमः ।

ॐ नचनानात्मने नमः । ८७०

ॐ नीतये नमः ।

ॐ नीतिमतां वराय नमः ।

ॐ सहजाय नमः ।

ॐ सदृशाय नमः ।

ॐ सिद्धाय नमः ।

ॐ एकाय नमः ।

ॐ चिन्मात्राय नमः ।

ॐ नकर्त्रे नमः ।

ॐ कर्त्रे नमः ।

ॐ भोक्त्रे नमः । ८८०

ॐ भोगविवर्जिताय नमः ।

ॐ तुरीयाय नमः ।

ॐ तुरीयातीताय नमः ।

ॐ स्वच्छाय नमः ।

ॐ सर्वमयाय नमः ।

ॐ सर्वाधिष्ठानरूपय नमः ।

ॐ सर्वध्येयविवर्जिताय नमः ।

ॐ सर्वलोकनिवासात्मने नमः ।

ॐ सकलोत्तमवन्दिताय नमः ।

ॐ देहभृते नमः । ८९०

ॐ देहकृते नमः ।

ॐ देहात्मने नमः ।

ॐ देहभावनाय नमः ।

ॐ देहिने नमः ।

ॐ देहविभक्ताय नमः ।

ॐ देहभावप्रकाशनाय नमः ।

ॐ लयस्थाय नमः ।

ॐ लयविदे नमः ।

ॐ लयभावाय नमः ।

ॐ बोधवते नमः । ९००

ॐ लयातीताय नमः ।

ॐ लयस्यान्ताय नमः ।

ॐ लयभावनिवारणाय नमः ।

ॐ विमुखाय नमः ।

ॐ प्रमुखाय नमः ।

ॐ प्रत्यङ्मुखवदाचारिणे नमः ।

ॐ विश्वभुजे नमः ।

ॐ विश्वघृषे नमः ।

ॐ विश्वाय नमः ।

ॐ विश्वक्षेमकराय नमः । ९१०

ॐ अविक्षिप्ताय नमः ।

ॐ अप्रमादिने नमः ।

ॐ परार्धये नमः ।

ॐ परमार्थदृशे नमः ।

ॐ स्वानुभवविहीनाय नमः ।

ॐ स्वानुभवप्रकाशनाय नमः ।

ॐ निरिन्द्रियाय नमः ।

ॐ निर्बुद्धये नमः ।

ॐ निराभासाय नमः ।

ॐ निराकृताय नमः । ९२०

ॐ निरहङ्काराय नमः ।

ॐ रूपात्मने नमः ।

ॐ निर्वपुषे नमः ।

ॐ सकलाश्रयाय नमः ।

ॐ शोकदुःखहराय नमः ।

ॐ भोगमोक्षफलप्रदाय नमः ।

ॐ सुप्रसन्नाय नमः ।

ॐ सूक्ष्माय नमः ।

ॐ शब्दब्रह्मार्थसंगृहाय नमः ।

ॐ आगमापाय शून्याय नमः । ९३०

ॐ स्थानदाय नमः ।

ॐ सताङ्गतये नमः ।

ॐ आकृताय नमः ।

ॐ सुकृताय नमः ।

ॐ कृतकर्मविनिर्वृताय नमः ।

ॐ भेदत्रयहराय नमः ।

ॐ देहत्रयविनिर्गताय नमः ।

ॐ सर्वकामप्रदाय नमः ।

ॐ सर्वकामनिवर्तकाय नमः ।

ॐ सिद्धेश्वराय नमः । ९४०

ॐ अजराय नमः ।

ॐ पञ्चबाणदर्पहुताशनाय नमः ।

ॐ चतुराक्षरबीजात्मने नमः ।

ॐ स्वभुवे नमः ।

ॐ चित्कीर्तिभूषणाय नमः ।

ॐ अगाधबुद्धये नमः ।

ॐ अक्षुब्धाय नमः ।

ॐ चन्द्रसूर्याग्निलोचनाय नमः ।

ॐ यमदंष्ट्राय नमः ।

ॐ अतिसंहर्त्रे नमः । ९५०

ॐ परमानन्दसागराय नमः ।

ॐ लीलाविश्वम्भराय नमः ।

ॐ भानवे नमः ।

ॐ भैरवाय नमः ।

ॐ भीमलोचनाय नमः ।

ॐ ब्रह्मचर्माम्बराय नमः ।

ॐ कालाय नमः ।

ॐ अचलाय नमः ।

ॐ चलनान्तकाय नमः ।

ॐ आदिदेवाय नमः । ९६०

ॐ जगद्योनये नमः ।

ॐ वासवारि विमर्दनाय नमः ।

ॐ विकर्मकर्मकर्मज्ञाय नमः ।

ॐ अनन्य गमकाय नमः ।

ॐ अगमाय नमः ।

ॐ अबद्धकर्मशून्याय नमः ।

ॐ कामरागकुलक्षयाय नमः ।

ॐ योगान्धकारमथनाय नमः ।

ॐ पद्मजन्मादिवन्दिताय नमः ।

ॐ भक्तकामाय नमः । ९७०

ॐ अग्रजाय नमः ।

ॐ चक्रिणे नमः ।

ॐ भावनिर्भावकाय नमः ।

ॐ भेदाङ्काय नमः ।

ॐ महते नमः ।

ॐ अग्रगाय नमः ।

ॐ निगुहाय नमः ।

ॐ गोचरान्तकाय नमः ।

ॐ कालाग्निशमनाय नमः ।

ॐ शङ्खचक्रपद्मगदाधराय नमः । ९८०

ॐ दीप्ताय नमः ।

ॐ दीनपतये नमः ।

ॐ शास्त्रे नमः ।

ॐ स्वच्छन्दाय नमः ।

ॐ मुक्तिदायकाय नमः ।

ॐ व्योमधर्माम्बराय नमः ।

ॐ भेत्त्रे नमः ।

ॐ भस्मधारिणे नमः ।

ॐ धराधराय नमः ।

ॐ धर्मगुप्ताय नमः । ९९०

ॐ अन्वयात्मने नमः ।

ॐ व्यतिरेकार्थनिर्णयाय नमः ।

ॐ एकोनेक गुणभासाभासनिर्भासवर्जिताय नमः ।

ॐ भावाभाव स्वभावात्मने नमः ।

ॐ भावाभाव विभावविदे नमः ।

ॐ योगीहृदयविश्रामाय नमः ।

ॐ अनन्तविद्याविवर्धनाय नमः ।

ॐ विघ्नान्तकाय नमः ।

ॐ त्रिकालज्ञाय नमः ।

ॐ तत्त्वात्मज्ञानसागराय नमः । १०००

इति श्रीमद् दत्तात्रेय सहस्रनामावली सम्पूर्णम् ॥